तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्। बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः। एकवस्त्रधरो धन्वी शिखी कनकमालया
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा। अदृश्यत तदा रामो बालचन्द्र इवोदितः
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः। बली दत्तवरो दर्पादाजगामाश्रमान्तरम्
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः। मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह
अवजानन्नहं मोहाद् बालोऽयमिति राघवम्। विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः। तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः। रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि। प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्
एवमस्मि तदा मुक्तः सहायास्ते निपातिताः। अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा
तन्मया वार्यमाणस्तु यदि रामेण विग्रहम्। करिष्यस्यापदां घोरां क्षिप्रं प्राप्य न शिष्यसि
क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम्। रक्षसां चैव संतापमनर्थं चाहरिष्यसि
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्। द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्। परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्। द्रक्ष्यस्यभिहतान् भूमौ तव दोषात् तु राक्षसान्
हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्
शरजालपरिक्षिप्तामग्निज्वालासमावृताम्। प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्
परदाराभिमर्शात् तु नान्यत् पापतरं महत्। प्रमदानां सहस्राणि तव राजन् परिग्रहे
भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान्। मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च। यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि। गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरास्तजीवितः
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-
एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे। इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम्
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने
दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः। व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण। अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः। रुधिराणि पिबंस्तेषां तन्मांसानि च भक्षयन्
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्। तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्
तदाहं दण्डकारण्ये विचरन् धर्मदूषकः। आसादयं तदा रामं तापसं धर्ममाश्रितम्
वैदेहीं च महाभागां लक्ष्मणं च महारथम्। तापसं नियताहारं सर्वभूतहिते रतम्