व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन्। विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्। अयं रक्षतु मां रामः पर्वकाले समाहितः
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर। इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्। ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः
कामं तु मम तत् सैन्यं मया सह गमिष्यति। बलेन चतुरङ्गेण स्वयमेत्य निशाचरम्
वधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम्। एवमुक्तः स तु मुनी राजानमिदमब्रवीत्
रामान्नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः। देवतानामपि भवान् समरेष्वभिपालकः
आसीत् तव कृतं कर्म त्रिलोकविदितं नृप। काममस्ति महत् सैन्यं तिष्ठत्विह परंतप
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे। गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप
इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम्। जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्
तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्। बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः। एकवस्त्रधरो धन्वी शिखी कनकमालया
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा। अदृश्यत तदा रामो बालचन्द्र इवोदितः
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः। बली दत्तवरो दर्पादाजगामाश्रमान्तरम्
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः। मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह
अवजानन्नहं मोहाद् बालोऽयमिति राघवम्। विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः। तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः। रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि। प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्
एवमस्मि तदा मुक्तः सहायास्ते निपातिताः। अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा
तन्मया वार्यमाणस्तु यदि रामेण विग्रहम्। करिष्यस्यापदां घोरां क्षिप्रं प्राप्य न शिष्यसि
क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम्। रक्षसां चैव संतापमनर्थं चाहरिष्यसि
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्। द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्। परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्। द्रक्ष्यस्यभिहतान् भूमौ तव दोषात् तु राक्षसान्
हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्
शरजालपरिक्षिप्तामग्निज्वालासमावृताम्। प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्
परदाराभिमर्शात् तु नान्यत् पापतरं महत्। प्रमदानां सहस्राणि तव राजन् परिग्रहे
भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान्। मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च। यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्