अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसाम्। अपि रामो न संक्रुद्धः कुर्याल्लोकानराक्षसान्
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा। अपि सीतानिमित्तं च न भवेद् व्यसनं महत्
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्। न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः। आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः
न च पित्रा परित्यक्तो नामर्यादः कथंचन। न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः। न च तीक्ष्णो हि भूतानां सर्वभूतहिते रतः
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्। करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च। हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्
न रामः कर्कशस्तात नाविद्वान् नाजितेन्द्रियः। अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः। राजा सर्वस्य लोकस्य देवानामिव वासवः
कथं नु तस्य वैदेहीं रक्षितां स्वेन तेजसा। इच्छसे प्रसभं हर्तुं प्रभामिव विवस्वतः
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे। रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्। चापबाणधरं तीक्ष्णं शत्रुसेनापहारिणम्
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः। नात्यासादयितुं तात रामान्तकमिहार्हसि
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा। न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने
तस्य वै नरसिंहस्य सिंहोरस्कस्य भामिनी। प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया। दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा
किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप। दृष्टश्चेत् त्वं रणे तेन तदन्तमुपजीवितम्
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्। यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्
स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः। मन्त्रयित्वा स धर्मिष्ठैः कृत्वा निश्चयमात्मनः। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः। हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना। इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-
कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम्। बलं नागसहस्रस्य धारयन् पर्वतोपमः
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः। भयं लोकस्य जनयन् किरीटी परिघायुधः
व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन्। विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्। अयं रक्षतु मां रामः पर्वकाले समाहितः
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर। इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्। ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः
कामं तु मम तत् सैन्यं मया सह गमिष्यति। बलेन चतुरङ्गेण स्वयमेत्य निशाचरम्