वसन्ति मन्नियोगेन अधिवासं च राक्षसाः। बाधमाना महारण्ये मुनीन् ये धर्मचारिणः
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्
ते त्विदानीं जनस्थाने वसमाना महाबलाः। सङ्गताः परमायत्ता रामेण सह संयुगे
नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः। तेन संजातरोषेण रामेण रणमूर्धनि
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः। चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्
निहतानि शरैर्दीप्तैर्मानुषेण पदातिना। खरश्च निहतः संख्ये दूषणश्च निपातितः
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः। पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः। अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः
त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः। येन वैरं विनारण्ये सत्त्वमास्थाय केवलम्
कर्णनासापहारेण भगिनी मे विरूपिता। अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव। त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल
भ्रातृभिश्च सुरान् सर्वान् नाहमत्राभिचिन्तये। तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव। उपायतो महान् शूरो महामायाविशारदः
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर। शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान्मम
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः। आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर
त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्। गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति
ततस्तयोरपाये तु शून्ये सीतां यथासुखम्। निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते। विश्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः। शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च
ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव। मृतभूत इवार्तस्तु रावणं समुदैक्षत
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः। कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा मारीचो राक्षसेश्वरम्
सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः
न नूनं बुध्यसे रामं महावीर्यगुणोन्नतम्। अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्
अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसाम्। अपि रामो न संक्रुद्धः कुर्याल्लोकानराक्षसान्
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा। अपि सीतानिमित्तं च न भवेद् व्यसनं महत्
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्। न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः। आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः
न च पित्रा परित्यक्तो नामर्यादः कथंचन। न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः