हस्त्यश्वरथगाढानि नगराणि विलोकयन्। तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्
अनूपे सिन्धुराजस्य ददर्श त्रिदिवोपमम्। तत्रापश्यत् स मेघाभं न्यग्रोधं मुनिभिर्वृतम्
समन्ताद् यस्य ताः शाखाः शतयोजनमायताः। यस्य हस्तिनमादाय महाकायं च कच्छपम्
भक्षार्थं गरुडः शाखामाजगाम महाबलः। तस्य तां सहसा शाखां भारेण पतगोत्तमः
सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः। तत्र वैखानसा माषा वालखिल्या मरीचिपाः
आजा बभूवुर्धूम्राश्च संगताः परमर्षयः। तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्
भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ। एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्
निषादविषयं हत्वा शाखया पतगोत्तमः। प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्
स तु तेन प्रहर्षेण द्विगुणीकृतविक्रमः। अमृतानयनार्थं वै चकार मतिमान् मतिम्
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्। नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः। ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे
तत्र कृष्णाजिनधरं जटामण्डलधारिणम्। ददर्श नियताहारं मारीचं नाम राक्षसम्
स रावणः समागम्य विधिवत् तेन रक्षसा। मारीचेनार्चितो राजा सर्वकामैरमानुषैः
तं स्वयं पूजयित्वा च भोजनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्
कच्चित्ते कुशलं राजन् लङ्कायां राक्षसेश्वर। केनार्थेन पुनस्त्वं वै तूर्णमेव इहागतः
एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः
thumb|षट्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-
मारीच श्रूयतां तात वचनं मम भाषतः। आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम। दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे
त्रिशिराश्च महाबाहू राक्षसः पिशिताशनः। अन्ये च बहवः शूरा लब्धलक्षा निशाचराः
वसन्ति मन्नियोगेन अधिवासं च राक्षसाः। बाधमाना महारण्ये मुनीन् ये धर्मचारिणः
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्
ते त्विदानीं जनस्थाने वसमाना महाबलाः। सङ्गताः परमायत्ता रामेण सह संयुगे
नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः। तेन संजातरोषेण रामेण रणमूर्धनि
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः। चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्
निहतानि शरैर्दीप्तैर्मानुषेण पदातिना। खरश्च निहतः संख्ये दूषणश्च निपातितः
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः। पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः। अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः
त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः। येन वैरं विनारण्ये सत्त्वमास्थाय केवलम्
कर्णनासापहारेण भगिनी मे विरूपिता। अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्