मन्मथस्य शराणां च त्वं विधेयो भविष्यसि। यदि तस्यामभिप्रायो भार्यात्वे तव जायते। शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण
विज्ञायैषामशक्तिं च क्रियतां च महाबल। सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर
निशम्य रामेण शरैरजिह्मगै- र्हताञ्जनस्थानगतान् निशाचरान्। खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्। सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह
तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः। स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह
यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः। सूतं संचोदयामास रथः संयुज्यतामिति
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः। रथं संयोजयामास तस्याभिमतमुत्तमम्
कामगं रथमास्थाय काञ्चनं रत्नभूषितम्। पिशाचवदनैर्युक्तं खरैः कनकभूषणैः
मेघप्रतिमनादेन स तेन धनदानुजः। राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः। स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः
दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः। त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्
कामगं रथमास्थाय शुशुभे राक्षसाधिपः। विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे
सशैलसागरानूपं वीर्यवानवलोकयन्। नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः। विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम्
कदल्यटविसंशोभं नारिकेलोपशोभितम्। सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः
अत्यन्तनियताहारैः शोभितं परमर्षिभिः। नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः
जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम्। आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्। क्रीडारतविधिज्ञाभिरप्सरोभिः सहस्रशः
सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम्। देवदानवसङ्घैश्च चरितं त्वमृताशिभिः
हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रसादितम्। वैदूर्यप्रस्तरं स्निग्धं सान्द्रं सागरतेजसा
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च। तूर्यगीताभिजुष्टानि विमानानि समन्ततः
तपसा जितलोकानां कामगान्यभिसम्पतन्। गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः
निर्यासरसमूलानां चन्दनानां सहस्रशः। वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च
अगुरूणां च मुख्यानां वनान्युपवनानि च। तक्कोलानां च जात्यानां फलिनां च सुगन्धिनाम्
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च। मुक्तानां च समूहानि शुष्यमाणानि तीरतः
शैलानि प्रवरांश्चैव प्रवालनिचयांस्तथा। काञ्चनानि च शृङ्गाणि राजतानि तथैव च
प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च। धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च