भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः। अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली। रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना। धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी। देवतेव वनस्यास्य राजते श्रीरिवापरा
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा
नैव देवी न गन्धर्वी न यक्षी न च किंनरी। तथारूपा मया नारी दृष्टपूर्वा महीतले
यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्। अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात्
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि। तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्। भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज। तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि। यदि तस्यामभिप्रायो भार्यात्वे तव जायते। शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण
विज्ञायैषामशक्तिं च क्रियतां च महाबल। सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर
निशम्य रामेण शरैरजिह्मगै- र्हताञ्जनस्थानगतान् निशाचरान्। खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्। सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह
तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः। स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह
यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः। सूतं संचोदयामास रथः संयुज्यतामिति
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः। रथं संयोजयामास तस्याभिमतमुत्तमम्
कामगं रथमास्थाय काञ्चनं रत्नभूषितम्। पिशाचवदनैर्युक्तं खरैः कनकभूषणैः
मेघप्रतिमनादेन स तेन धनदानुजः। राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः। स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः
दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः। त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्
कामगं रथमास्थाय शुशुभे राक्षसाधिपः। विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे
सशैलसागरानूपं वीर्यवानवलोकयन्। नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः। विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम्
कदल्यटविसंशोभं नारिकेलोपशोभितम्। सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः
अत्यन्तनियताहारैः शोभितं परमर्षिभिः। नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः
जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम्। आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः