आयुधं किं च रामस्य येन ते राक्षसा हताः। खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा
तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता। इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता
ततो रामं यथान्यायमाख्यातुमुपचक्रमे। दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः
कन्दर्पसमरूपश्च रामो दशरथात्मजः। शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान्। नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे। हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः। रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना। अर्धाधिकमुहूर्तेन खरश्च सहदूषणः
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः
एका कथंचिन्मुक्ताहं परिभूय महात्मना। स्त्रीवधं शङ्कमानेन रामेण विदितात्मना
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः। अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली। रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना। धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी। देवतेव वनस्यास्य राजते श्रीरिवापरा
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा
नैव देवी न गन्धर्वी न यक्षी न च किंनरी। तथारूपा मया नारी दृष्टपूर्वा महीतले
यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्। अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात्
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि। तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्। भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज। तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि। यदि तस्यामभिप्रायो भार्यात्वे तव जायते। शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण
विज्ञायैषामशक्तिं च क्रियतां च महाबल। सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर
निशम्य रामेण शरैरजिह्मगै- र्हताञ्जनस्थानगतान् निशाचरान्। खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्। सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह
तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः। स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह
यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः। सूतं संचोदयामास रथः संयुज्यतामिति
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः। रथं संयोजयामास तस्याभिमतमुत्तमम्