त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस। ज्ञातव्यं तन्न जानीषे कथं राजा भविष्यसि
येषां चाराश्च कोशश्च नयश्च जयतां वर। अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः। चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्युतः। स्वजनं च जनस्थानं निहतं नावबुध्यसे
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण खरश्च सहदूषणः
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः। धर्षितं च जनस्थानं रामेणाक्लिष्टकारिणा
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च राक्षस। विषये स्वे समुत्पन्नं यद् भयं नावबुध्यसे
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्। व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्
अतिमानिनमग्राह्यमात्मसम्भावितं नरम्। क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्
नानुतिष्ठति कार्याणि भयेषु न बिभेति च। क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भवेदिह
शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः। न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः
उपभुक्तं यथा वासः स्रजो वा मृदिता यथा। एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः। कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्
नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा। व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः
त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः। यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः
परावमन्ता विषयेषु सङ्गवान् न देशकालप्रविभागतत्त्ववित्। अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद् विपत्स्यसे
इति स्वदोषान् परिकीर्तितांस्तथा समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः। धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-
ततः शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः। अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः। किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुस्तरम्
आयुधं किं च रामस्य येन ते राक्षसा हताः। खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा
तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता। इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता
ततो रामं यथान्यायमाख्यातुमुपचक्रमे। दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः
कन्दर्पसमरूपश्च रामो दशरथात्मजः। शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान्। नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे। हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः। रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना। अर्धाधिकमुहूर्तेन खरश्च सहदूषणः
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः
एका कथंचिन्मुक्ताहं परिभूय महात्मना। स्त्रीवधं शङ्कमानेन रामेण विदितात्मना