सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्। उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्
आसीनं सूर्यसंकाशे काञ्चने परमासने। रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्
देवगन्धर्वभूतानामृषीणां च महात्मनाम्। अजेयं समरे घोरं व्यात्ताननमिवान्तकम्
देवासुरविमर्देषु वज्राशनिकृतव्रणम्। ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्। विशालवक्षसं वीरं राजलक्षणलक्षितम्
नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम्। सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम्
अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा। अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम्। उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा। पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः। कैलासं पर्वतं गत्वा विजित्य नरवाहनम्
विमानं पुष्पकं तस्य कामगं वै जहार यः। वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्
विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान्। चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ
निवारयति बाहुभ्यां यः शैलशिखरोपमः। दशवर्षसहस्राणि तपस्तप्त्वा महावने
पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः। देवदानवगन्धर्वपिशाचपतगोरगैः
अभयं यस्य संग्रामे मृत्युतो मानुषादृते। मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः
हविर्धानेषु यः सोममुपहन्ति महाबलः। प्राप्तयज्ञहरं दुष्टं ब्रह्मघ्नं क्रूरकारिणम्
कर्कशं निरनुक्रोशं प्रजानामहिते रतम्। रावणं सर्वभूतानां सर्वलोकभयावहम्
राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम्। तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्
आसने सूपविष्टं तं काले कालमिवोद्यतम्। राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्
उपगम्याब्रवीद् वाक्यं राक्षसी भयविह्वला। रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्
तमब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयलोभमोहिता। सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता
thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-
ततः शूर्पणखा दीना रावणं लोकरावणम्। अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः। समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्। लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः। स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्। वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः
ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः। ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः। अयुक्तचारश्चपलः कथं राजा भविष्यसि