स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्। चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव
स दूरे चाश्रमं गत्वा ताटकेयमुपागमत्। मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः
तं स्वयं पूजयित्वा तु आसनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्
कच्चित् सकुशलं राजँल्लोकानां राक्षसाधिप। आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः
एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः
आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा। जनस्थानमवध्यं तत् सर्वं युधि निपातितम्
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे। राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत्
आख्याता केन वा सीता मित्ररूपेण शत्रुणा। त्वया राक्षसशार्दूल को न नन्दति नन्दितः
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति
प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम्। आशीविषमुखाद् दंष्ट्रामुद्धर्तुं चेच्छति त्वया
कर्मणानेन केनासि कापथं प्रतिपादितः। सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि
विशुद्धवंशाभिजनाग्रहस्त- तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती
असौ रणान्तःस्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न शक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः
चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे। न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु
एवमुक्तो दशग्रीवो मारीचेन स रावणः। न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश। हतान्येकेन रामेण रक्षसां भीमकर्मणाम्
दूषणं च खरं चैव हतं त्रिशिरसं रणे। दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम्। जगाम परमोद्विग्ना लङ्कां रावणपालिताम्
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्। उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्
आसीनं सूर्यसंकाशे काञ्चने परमासने। रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्
देवगन्धर्वभूतानामृषीणां च महात्मनाम्। अजेयं समरे घोरं व्यात्ताननमिवान्तकम्
देवासुरविमर्देषु वज्राशनिकृतव्रणम्। ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्। विशालवक्षसं वीरं राजलक्षणलक्षितम्
नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम्। सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम्
अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा। अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम्। उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा। पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्