सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत्। असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम्
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः। वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः। शक्तः श्रेष्ठः स पुरुषः स्रष्टुं पुनरपि प्रजाः
नहि रामो दशग्रीव शक्यो जेतुं रणे त्वया। रक्षसां वापि लोकेन स्वर्गः पापजनैरिव
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि। अयं तस्य वधोपायस्तन्ममैकमनाः शृणु
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता
नैव देवी न गन्धर्वी नाप्सरा न च पन्नगी। तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत्
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः। चिन्तयित्वा महाबाहुरकम्पनमुवाच ह
बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह। आनेष्यामि च वैदेहीमिमां हृष्टो महापुरीम्
तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः। रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्। चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव
स दूरे चाश्रमं गत्वा ताटकेयमुपागमत्। मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः
तं स्वयं पूजयित्वा तु आसनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्
कच्चित् सकुशलं राजँल्लोकानां राक्षसाधिप। आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः
एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः
आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा। जनस्थानमवध्यं तत् सर्वं युधि निपातितम्
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे। राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत्
आख्याता केन वा सीता मित्ररूपेण शत्रुणा। त्वया राक्षसशार्दूल को न नन्दति नन्दितः
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति
प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम्। आशीविषमुखाद् दंष्ट्रामुद्धर्तुं चेच्छति त्वया
कर्मणानेन केनासि कापथं प्रतिपादितः। सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि
विशुद्धवंशाभिजनाग्रहस्त- तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती
असौ रणान्तःस्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न शक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः
चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे। न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु
एवमुक्तो दशग्रीवो मारीचेन स रावणः। न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश। हतान्येकेन रामेण रक्षसां भीमकर्मणाम्
दूषणं च खरं चैव हतं त्रिशिरसं रणे। दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम्। जगाम परमोद्विग्ना लङ्कां रावणपालिताम्