एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम्। तदिदं नः कृतं कार्यं त्वया दशरथात्मज
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः। एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी ततो रामस्तु विजयी पूज्यमानो महर्षिभिः
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः। तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे। मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्। रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा
ततस्तु तं राक्षससङ्घमर्दनं सम्पूज्यमानं मुदितैर्महात्मभिः। पुनः परिष्वज्य मुदान्वितानना बभूव हृष्टा जनकात्मजा तदा
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्
जनस्थानस्थिता राजन् राक्षसा बहवो हताः। खरश्च निहतः संख्ये कथंचिदहमागतः
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव तेजसा
केन भीमं जनस्थानं हतं मम परासुना। को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्। प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना
कालस्य चाप्यहं कालो दहेयमपि पावकम्। मृत्युं मरणधर्मेण संयोजयितुमुत्सहे
वातस्य तरसा वेगं निहन्तुमपि चोत्सहे। दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः। भयात् संदिग्धया वाचा रावणं याचतेऽभयम्
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः
पुत्रो दशरथस्यास्ते सिंहसंहननो युवा। रामो नाम महास्कन्धो वृत्तायतमहाभुजः
श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः। हतस्तेन जनस्थाने खरश्च सहदूषणः
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः। नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत्
स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह। उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः। आचचक्षे बलं तस्य विक्रमं च महात्मनः
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्। दिव्यास्त्रगुणसम्पन्नः परं धर्मं गतो युधि
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः। कनीयाँल्लक्ष्मणो भ्राता राकाशशिनिभाननः
स तेन सह संयुक्तः पावकेनानिलो यथा। श्रीमान् राजवरस्तेन जनस्थानं निपातितम्
नैव देवा महात्मानो नात्र कार्या विचारणा। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्। येन येन च गच्छन्ति राक्षसा भयकर्षिताः
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्। इत्थं विनाशितं तेन जनस्थानं तवानघ
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्। गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणम्
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः। शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्
असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः