स तद् दत्तं मघवता सुरराजेन धीमता। संदधे च स धर्मात्मा मुमोच च खरं प्रति
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः। रामेण धनुरायम्य खरस्योरसि चापतत्
स पपात खरो भूमौ दह्यमानः शराग्निना। रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा। बलो वेन्द्राशनिहतो निपपात हतः खरः
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः। दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्। खरदूषणमुख्यानां निहतानि महामृधे
अहो बत महत्कर्म रामस्य विदितात्मनः। अहो वीर्यमहो दार्ढ्यं विष्णोरिव हि दृश्यते
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्। ततो राजर्षयः सर्वे संगताः परमर्षयः
सभाज्य मुदिता रामं सागस्त्या इदमब्रुवन्। एतदर्थं महातेजा महेन्द्रः पाकशासनः
शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः। आनीतस्त्वमिमं देशमुपायेन महर्षिभिः
एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम्। तदिदं नः कृतं कार्यं त्वया दशरथात्मज
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः। एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी ततो रामस्तु विजयी पूज्यमानो महर्षिभिः
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः। तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे। मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्। रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा
ततस्तु तं राक्षससङ्घमर्दनं सम्पूज्यमानं मुदितैर्महात्मभिः। पुनः परिष्वज्य मुदान्वितानना बभूव हृष्टा जनकात्मजा तदा
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्
जनस्थानस्थिता राजन् राक्षसा बहवो हताः। खरश्च निहतः संख्ये कथंचिदहमागतः
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव तेजसा
केन भीमं जनस्थानं हतं मम परासुना। को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्। प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना
कालस्य चाप्यहं कालो दहेयमपि पावकम्। मृत्युं मरणधर्मेण संयोजयितुमुत्सहे
वातस्य तरसा वेगं निहन्तुमपि चोत्सहे। दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः। भयात् संदिग्धया वाचा रावणं याचतेऽभयम्
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः
पुत्रो दशरथस्यास्ते सिंहसंहननो युवा। रामो नाम महास्कन्धो वृत्तायतमहाभुजः
श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः। हतस्तेन जनस्थाने खरश्च सहदूषणः
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः। नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत्
स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह। उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन