कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये। कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः
एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः। स ददर्श महासालमविदूरे निशाचरः
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्। स तमुत्पाटयामास संदष्टदशनच्छदम्
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः। राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्। रोषमाहारयत् तीव्रं निहन्तुं समरे खरम्
जातस्वेदस्ततो रामो रोषरक्तान्तलोचनः। निर्बिभेद सहस्रेण बाणानां समरे खरम्
तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम्। गिरेः प्रस्रवणस्येव धाराणां च परिस्रवः
विकलः स कृतो बाणैः खरो रामेण संयुगे। मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद् द्रुतम्
तमापतन्तं संक्रुद्धं कृतास्त्रो रुधिराप्लुतम्। अपासर्पद् द्वित्रिपदं किंचित्त्वरितविक्रमः
ततः पावकसंकाशं वधाय समरे शरम्। खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्
स तद् दत्तं मघवता सुरराजेन धीमता। संदधे च स धर्मात्मा मुमोच च खरं प्रति
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः। रामेण धनुरायम्य खरस्योरसि चापतत्
स पपात खरो भूमौ दह्यमानः शराग्निना। रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा। बलो वेन्द्राशनिहतो निपपात हतः खरः
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः। दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्। खरदूषणमुख्यानां निहतानि महामृधे
अहो बत महत्कर्म रामस्य विदितात्मनः। अहो वीर्यमहो दार्ढ्यं विष्णोरिव हि दृश्यते
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्। ततो राजर्षयः सर्वे संगताः परमर्षयः
सभाज्य मुदिता रामं सागस्त्या इदमब्रुवन्। एतदर्थं महातेजा महेन्द्रः पाकशासनः
शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः। आनीतस्त्वमिमं देशमुपायेन महर्षिभिः
एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम्। तदिदं नः कृतं कार्यं त्वया दशरथात्मज
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः। एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी ततो रामस्तु विजयी पूज्यमानो महर्षिभिः
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः। तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे। मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्। रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा
ततस्तु तं राक्षससङ्घमर्दनं सम्पूज्यमानं मुदितैर्महात्मभिः। पुनः परिष्वज्य मुदान्वितानना बभूव हृष्टा जनकात्मजा तदा
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्
जनस्थानस्थिता राजन् राक्षसा बहवो हताः। खरश्च निहतः संख्ये कथंचिदहमागतः
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव तेजसा