प्रहरस्व यथाकामं कुरु यत्नं कुलाधम। अद्य ते पातयिष्यामि शिरस्तालफलं यथा
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः। प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्च्छितः
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज। आत्मना कथमात्मानमप्रशस्यं प्रशंससि
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः। कथयन्ति न ते किंचित् तेजसा चातिगर्विताः
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्थन्ते यथा राम विकत्थसे
कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति। मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम्
सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्। सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्। धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव। त्रयाणामपि लोकानां पाशहस्त इवान्तकः
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्। अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत्
चतुर्दश सहस्राणि राक्षसानां हतानि ते। त्वद्विनाशात् करोम्यद्य तेषामश्रुप्रमार्जनम्
इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम्। खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा। भस्म वृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः
तामापतन्तीं महतीं मृत्युपाशोपमां गदाम्। अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः
सा विशीर्णा शरैर्भिन्ना पपात धरणीतले। गदा मन्त्रौषधिबलैर्व्यालीव विनिपातिता
thumb|त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः। स्मयमान इदं वाक्यं संरब्धमिदमब्रवीत्
एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम। शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि
एषा बाणविनिर्भिन्ना गदा भूमितलं गता। अभिधानप्रगल्भस्य तव प्रत्ययघातिनी
यत् त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम्। राक्षसानां करोमीति मिथ्या तदपि ते वचः
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः। प्राणानपहरिष्यामि गरुत्मानमृतं यथा
अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम्। विदारितस्य मद्बाणैर्मही पास्यति शोणितम्
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः। स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने। भविष्यन्ति शरण्यानां शरण्या दण्डका इमे
जनस्थाने हतस्थाने तव राक्षस मच्छरैः। निर्भया विचरिष्यन्ति सर्वतो मुनयो वने
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः। बाष्पार्द्रवदना दीना भयादन्यभयावहाः
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः। अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः
नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक। त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः
तमेवमभिसंरब्धं ब्रुवाणं राघवं वने। खरो निर्भर्त्सयामास रोषात् खरतरस्वरः
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः। वाच्यावाच्यं ततो हि त्वं मृत्योर्वश्यो न बुध्यसे