स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः
तद् बभूव शितैर्बाणैः खररामविसर्जितैः। पर्याकाशमनाकाशं सर्वतः शरसंकुलम्
शरजालावृतः सूर्यो न तदा स्म प्रकाशते। अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। आजघान रणे रामं तोत्रैरिव महाद्विपम्
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा
ततः सूर्यनिकाशेन रथेन महता खरः। आससादाथ तं रामं पतङ्ग इव पावकम्
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम्
स पुनस्त्वपरान् सप्त शरानादाय मर्मणि। निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्
ततः शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः। पपात कवचं भूमौ रामस्यादित्यवर्चसम्
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः। रराज समरे रामो विधूमोऽग्निरिव ज्वलन्
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः। चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः
सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा। वरं तद् धनुरुद्यम्य खरं समभिधावत
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः। चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्
स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः। जगाम धरणीं सूर्यो देवतानामिवाज्ञया
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः। विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः
स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः। विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्
स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे। मुमोच परमेष्वासः षट् शरानभिलक्षितान्
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह
रथस्य युगमेकेन चतुर्भिः शबलान् हयान्। षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः
त्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः। द्वादशेन तु बाणेन खरस्य सशरं धनुः
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव। त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा
तत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च। अपूजयन् प्राञ्जलयः प्रहृष्टा- स्तदा विमानाग्रगताः समेताः
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-
खरं तु विरथं रामो गदापाणिमवस्थितम्। मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्
गजाश्वरथसम्बाधे बले महति तिष्ठता। कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम्
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति