शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः। स धूमशोणितोद्गारी रामबाणाभिपीडितः
न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः। हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव। तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन्। राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह। खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम्। हतमेकेन रामेण दूषणस्त्रिशिरा अपि
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः। आससाद खरो रामं नमुचिर्वासवं यथा
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्। खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव
ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्। चचार समरे मार्गान् शरै रथगतः खरः
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः। पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः
स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः
तद् बभूव शितैर्बाणैः खररामविसर्जितैः। पर्याकाशमनाकाशं सर्वतः शरसंकुलम्
शरजालावृतः सूर्यो न तदा स्म प्रकाशते। अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। आजघान रणे रामं तोत्रैरिव महाद्विपम्
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा
ततः सूर्यनिकाशेन रथेन महता खरः। आससादाथ तं रामं पतङ्ग इव पावकम्
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम्
स पुनस्त्वपरान् सप्त शरानादाय मर्मणि। निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्
ततः शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः। पपात कवचं भूमौ रामस्यादित्यवर्चसम्
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः। रराज समरे रामो विधूमोऽग्निरिव ज्वलन्
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः। चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः
सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा। वरं तद् धनुरुद्यम्य खरं समभिधावत
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः। चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्
स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः। जगाम धरणीं सूर्यो देवतानामिवाज्ञया
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः। विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः
स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः। विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्
स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे। मुमोच परमेष्वासः षट् शरानभिलक्षितान्