दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सर्पास्यो रुधिराशनः
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः। राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्
ततः पावकसंकाशैर्हेमवज्रविभूषितैः। जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः। निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्
रक्षसां तु शतं रामः शतेनैकेन किर्णना। सहस्रं तु सहस्रेण जघान रणमूर्धनि
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः। निपेतुः शोणितादिग्धा धरण्यां रजनीचराः
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः। विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव
तत्क्षणे तु महाघोरं वनं निहतराक्षसम्। बभूव निरयप्रख्यं मांसशोणितकर्दमम्
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण मानुषेण पदातिना
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः। राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः
शेषा हता महावीर्या राक्षसा रणमूर्धनि। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा। रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तविंशः सर्गः ॥३-
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः। राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्
मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनिपातितम्
प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्
अहं वास्य रणे मृत्युरेष वा समरे मम। विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि। मयि वा निहते रामं संयुगाय प्रयास्यसि
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः। गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ
त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता। अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः
शरधारासमूहान् स महामेघ इवोत्सृजन्। व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः। धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान्
स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा। सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः। अमर्षी कुपितो रामः संरब्ध इदमब्रवीत्
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्। पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान्। एवमुक्त्वा सुसंरब्धः शरानाशीविषोपमान्
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश। चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः। अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्। ततो हतरथात् तस्मादुत्पतन्तं निशाचरम्
चिच्छेद रामस्तं बाणैर्हृदये सोऽभवज्जडः। सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः