दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे। साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः। संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः। महाकपालो विपुलं शूलमुद्यम्य राक्षसः
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्। दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव। महाकपालस्य शिरश्चिच्छेद रघुनन्दनः
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्। स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः
स पपात हतो भूमौ विटपीव महाद्रुमः। दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्
हत्वा तु पञ्चसाहस्रैरनयद् यमसादनम्। दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान्
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान्। अयं विनिहतः संख्ये दूषणः सपदानुगः
महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्। शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः
दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सर्पास्यो रुधिराशनः
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः। राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्
ततः पावकसंकाशैर्हेमवज्रविभूषितैः। जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः। निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्
रक्षसां तु शतं रामः शतेनैकेन किर्णना। सहस्रं तु सहस्रेण जघान रणमूर्धनि
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः। निपेतुः शोणितादिग्धा धरण्यां रजनीचराः
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः। विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव
तत्क्षणे तु महाघोरं वनं निहतराक्षसम्। बभूव निरयप्रख्यं मांसशोणितकर्दमम्
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण मानुषेण पदातिना
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः। राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः
शेषा हता महावीर्या राक्षसा रणमूर्धनि। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा। रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तविंशः सर्गः ॥३-
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः। राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्
मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनिपातितम्
प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्
अहं वास्य रणे मृत्युरेष वा समरे मम। विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि। मयि वा निहते रामं संयुगाय प्रयास्यसि
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः। गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ
त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता। अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः