द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः। तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्। ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन्
ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः। राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्। समयोजयद् गान्धर्वं राक्षसेषु महाबलः
ततः शरसहस्राणि निर्ययुश्चापमण्डलात्। सर्वा दश दिशो बाणैरापूर्यन्त समागतैः
नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान्। विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः
शरान्धकारमाकाशमावृणोत् सदिवाकरम्। बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान्
युगपत्पतमानैश्च युगपच्च हतैर्भृशम्। युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः। तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा। ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः। चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि
रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः। खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयंकरा
तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः। न तत्र चलितुं शक्ता रामं परपुरंजयम्
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षड्विंशः सर्गः ॥३-
दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च। संदिदेश महाबाहुर्भीमवेगान् दुरासदान्
राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः। ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि
शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः। तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः। प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः
रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम्। ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा
शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम्। ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः
शरैरशनिकल्पैस्तं राघवं समवारयत्। ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः
चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान्। हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि। स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्। वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्। वज्राशनिसमस्पर्शं परगोपुरदारणम्
तं महोरगसंकाशं प्रगृह्य परिघं रणे। दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः
तस्याभिपतमानस्य दूषणस्य च राघवः। द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि। परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः
कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः