हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन्। गजांश्च सगजारोहान् सहयान् सादिनस्तदा
चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः। पदातीन् समरे हत्वा ह्यनयद् यमसादनम्
तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः। न रामेण सुखं लेभे शुष्कं वनमिवाग्निना
केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान्। चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः
तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान्। जहार समरे प्राणांश्चिच्छेद च शिरोधरान्
ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः। सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा
अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः। खरमेवाभ्यधावन्त शरणार्थं शराहताः
तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः। अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः। राममेवाभ्यधावन्त सालतालशिलायुधाः
शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः। सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे
द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः। तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्। ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन्
ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः। राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्। समयोजयद् गान्धर्वं राक्षसेषु महाबलः
ततः शरसहस्राणि निर्ययुश्चापमण्डलात्। सर्वा दश दिशो बाणैरापूर्यन्त समागतैः
नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान्। विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः
शरान्धकारमाकाशमावृणोत् सदिवाकरम्। बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान्
युगपत्पतमानैश्च युगपच्च हतैर्भृशम्। युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः। तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा। ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः। चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि
रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः। खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयंकरा
तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः। न तत्र चलितुं शक्ता रामं परपुरंजयम्
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षड्विंशः सर्गः ॥३-
दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च। संदिदेश महाबाहुर्भीमवेगान् दुरासदान्
राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः। ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि
शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः। तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः। प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः
रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम्। ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा