स खरस्याज्ञया सूतस्तुरगान् समचोदयत्। यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः
तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः। मुञ्चमाना महानादं सचिवाः पर्यवारयन्
स तेषां यातुधानानां मध्ये रथगतः खरः। बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः
ततः शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः। रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्
मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः। राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः
ते बलाहकसंकाशा महाकाया महाबलाः। अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः। ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः
शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः। सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः
तिथिष्विव महादेवो वृतः पारिषदां गणैः। तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः। स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः। स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः
बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः। विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्। ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः
ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः। दुरावारान् दुर्विषहान् कालपाशोपमान् रणे
मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान्। ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया
आददू रक्षसां प्राणान् पाशाः कालकृता इव। भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः। असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः। तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च
बाहून् सहस्ताभरणानूरून् करिकरोपमान्। चिच्छेद रामः समरे शतशोऽथ सहस्रशः
हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन्। गजांश्च सगजारोहान् सहयान् सादिनस्तदा
चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः। पदातीन् समरे हत्वा ह्यनयद् यमसादनम्
तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः। न रामेण सुखं लेभे शुष्कं वनमिवाग्निना
केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान्। चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः
तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान्। जहार समरे प्राणांश्चिच्छेद च शिरोधरान्
ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः। सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा
अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः। खरमेवाभ्यधावन्त शरणार्थं शराहताः
तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः। अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः। राममेवाभ्यधावन्त सालतालशिलायुधाः
शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः। सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे