उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण। निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः
रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः। आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः
अनागतविधानं तु कर्तव्यं शुभमिच्छता। आपदं शङ्कमानेन पुरुषेण विपश्चिता
तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः। गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम्
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया। शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्
त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः। स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान्
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया। शरानादाय चापं च गुहां दुर्गां समाश्रयत्
तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया। हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्
स तेनाग्निनिकाशेन कवचेन विभूषितः। बभूव रामस्तिमिरे महानग्निरिवोत्थितः
स चापमुद्यम्य महच्छरानादाय वीर्यवान्। सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः। समेयुश्च महात्मानो युद्धदर्शनकांक्षया
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः। समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः
स्वस्ति गोब्राह्मणानां च लोकानां चेति संस्थिताः। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्
चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान्। एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्। दृष्ट्वा सर्वाणि भूतानि भयाद् विव्यथिरे तदा
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः। बभूव रूपं क्रुद्धस्य रुद्रस्येव महात्मनः
इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः। ततो गम्भीरनिर्ह्रादं घोरचर्मायुधध्वजम्
अनीकं यातुधानानां समन्तात् प्रत्यपद्यत। वीरालापान् विसृजतामन्योन्यमभिगच्छताम्
चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः। विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्
तेषां सुतुमुलः शब्दः पूरयामास तद् वनम्। तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन्। तच्चानीकं महावेगं रामं समनुवर्तत
धृतनानाप्रहरणं गम्भीरं सागरोपमम्। रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः
ददर्श खरसैन्यं तद् युद्धायाभिमुखो गतः। वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्
क्रोधमाहारयत् तीव्रं वधार्थं सर्वरक्षसाम्। दुष्प्रेक्ष्यश्चाभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्
तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः। तस्य रुष्टस्य रूपं तु रामस्य ददृशे तदा। दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः
तत्कार्मुकैराभरणै रथैश्च तद्वर्मभिश्चाग्निसमानवर्णैः। बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रजालम्
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-
अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम्। ददर्शाश्रममागम्य खरः सह पुरःसरैः
तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्। रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्