युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम्। देवराजमपि क्रुद्धो मत्तैरावतगामिनम्
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ। सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता। समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः। समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः
स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्
चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान्। एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः
जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः
दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सर्पास्यो रुधिराशनः
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्। महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा। चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः
सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-
आश्रमं प्रतियाते तु खरे खरपराक्रमे। तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह
तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः। प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्
इमान् पश्य महाबाहो सर्वभूतापहारिणः। समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्
अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः। व्योम्नि मेघा निवर्तन्ते परुषा गर्दभारुणाः
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः। रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण
यादृशा इह कूजन्ति पक्षिणो वनचारिणः। अग्रतो नोऽभयं प्राप्तं संशयो जीवितस्य च
सम्प्रहारस्तु सुमहान् भविष्यति न संशयः। अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः
संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्। सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण। निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः
रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः। आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः
अनागतविधानं तु कर्तव्यं शुभमिच्छता। आपदं शङ्कमानेन पुरुषेण विपश्चिता
तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः। गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम्
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया। शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्
त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः। स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान्
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया। शरानादाय चापं च गुहां दुर्गां समाश्रयत्
तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया। हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्
स तेनाग्निनिकाशेन कवचेन विभूषितः। बभूव रामस्तिमिरे महानग्निरिवोत्थितः
स चापमुद्यम्य महच्छरानादाय वीर्यवान्। सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः