उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः। संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः। उद्धूतश्च विना वातं रेणुर्जलधरारुणः
चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः। उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः
प्रचचाल मही चापि सशैलवनकानना। खरस्य च रथस्थस्य नर्दमानस्य धीमतः
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत। सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः
ललाटे च रुजो जाता न च मोहान्न्यवर्तत। तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा। महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्
न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव। तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्। राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे। यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम्। देवराजमपि क्रुद्धो मत्तैरावतगामिनम्
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ। सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता। समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः। समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः
स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्
चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान्। एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः
जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः
दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सर्पास्यो रुधिराशनः
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्। महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा। चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः
सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-
आश्रमं प्रतियाते तु खरे खरपराक्रमे। तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह
तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः। प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्
इमान् पश्य महाबाहो सर्वभूतापहारिणः। समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्
अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः। व्योम्नि मेघा निवर्तन्ते परुषा गर्दभारुणाः
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः। रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण
यादृशा इह कूजन्ति पक्षिणो वनचारिणः। अग्रतो नोऽभयं प्राप्तं संशयो जीवितस्य च
सम्प्रहारस्तु सुमहान् भविष्यति न संशयः। अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः
संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्। सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते