ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम्। निर्जगाम जनस्थानान्महानादं महाजवम्
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः। खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः। गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः
राक्षसानां सुघोराणां सहस्राणि चतुर्दश। निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम्
तांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान्। खरस्याथ रथः किंचिज्जगाम तदनन्तरम्
संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः। शब्देनापूरयामास दिशः सप्रदिशस्तथा
प्रवृद्धमन्युस्तु खरः खरस्वरो रिपोर्वधार्थं त्वरितो यथान्तकः। अचूचुदत् सारथिमुन्नदन् पुन- र्महाबलो मेघ इवाश्मवर्षवान्
thumb|त्रयोविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-
तत्प्रयातं बलं घोरमशिवं शोणितोदकम्। अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः। समे पुष्पचिते देशे राजमार्गे यदृच्छया
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्। अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्। समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः
जनस्थानसमीपे च समाक्रम्य खरस्वनाः। विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः
व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम्। अशिवं यातुधानानां शिवा घोरा महास्वनाः
प्रभिन्नगजसंकाशास्तोयशोणितधारिणः। आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्। दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे
क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ। खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः। नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः। कबन्धः परिघाभासो दृश्यते भास्करान्तिके
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः। प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः। संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः। उद्धूतश्च विना वातं रेणुर्जलधरारुणः
चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः। उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः
प्रचचाल मही चापि सशैलवनकानना। खरस्य च रथस्थस्य नर्दमानस्य धीमतः
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत। सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः
ललाटे च रुजो जाता न च मोहान्न्यवर्तत। तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा। महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्
न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव। तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्। राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे। यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः