ते तु रामेण सामर्षाः शूलपट्टिशपाणयः। समरे निहताः सर्वे सायकैर्मर्मभेदिभिः
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान्। रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर। शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी
विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मग्नां विपुले शोकसागरे
एते च निहता भूमौ रामेण निशितैः शरैः। ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च। रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर
दण्डकारण्यनिलयं जहि राक्षसकण्टकम्। यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा। बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे। शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः
अपयाहि जनस्थानात् त्वरितः सहबान्धवः। जहि त्वं समरे मूढान्यथा तु कुलपांसन
मानुषौ तौ न शक्नोषि हन्तुं वै रामलक्ष्मणौ। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि। स हि तेजःसमायुक्तो रामो दशरथात्मजः
भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह। कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वाविंशः सर्गः ॥३-
एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः। उवाच रक्षसां मध्ये खरः खरतरं वचः
तवापमानप्रभवः क्रोधोऽयमतुलो मम। न शक्यते धारयितुं लवणाम्भ इवोल्बणम्
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्। आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते
बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम्। अहं रामं सह भ्रात्रा नयामि यमसादनम्
परश्वधहतस्याद्य मन्दप्राणस्य भूतले। रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि
सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम्। प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम्
तया परुषितः पूर्वं पुनरेव प्रशंसितः। अब्रवीद् दूषणं नाम खरः सेनापतिं तदा
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्। रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्
नीलजीमूतवर्णानां लोकहिंसाविहारिणाम्। सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च। शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्। वधार्थं दुर्विनीतस्य रामस्य रणकोविद
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्। सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्। हेमचक्रमसम्बाधं वैदूर्यमयकूबरम्
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः। माङ्गल्यैः पक्षिसङ्घैश्च ताराभिश्च समावृतम्
ध्वजनिस्त्रिंशसम्पन्नं किंकिणीवरभूषितम्। सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा
खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम्। निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान्