निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः। वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकविंशः सर्गः ॥३-
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां पुनः। उवाच व्यक्तया वाचा तामनर्थार्थमागताम्
मया त्विदानीं शूरास्ते राक्षसाः पिशिताशनाः। त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः। हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः। हा नाथेति विनर्दन्ती सर्पवच्चेष्टसे क्षितौ
अनाथवद् विलपसि किं नु नाथे मयि स्थिते। उत्तिष्ठोत्तिष्ठ मा मैवं वैक्लव्यं त्यज्यतामिति
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता। विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्
अस्मीदानीमहं प्राप्ता हतश्रवणनासिका। शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता
प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश। निहन्तुं राघवं घोरं मत्प्रियार्थं सलक्ष्मणम्
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः। समरे निहताः सर्वे सायकैर्मर्मभेदिभिः
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान्। रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर। शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी
विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मग्नां विपुले शोकसागरे
एते च निहता भूमौ रामेण निशितैः शरैः। ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च। रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर
दण्डकारण्यनिलयं जहि राक्षसकण्टकम्। यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा। बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे। शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः
अपयाहि जनस्थानात् त्वरितः सहबान्धवः। जहि त्वं समरे मूढान्यथा तु कुलपांसन
मानुषौ तौ न शक्नोषि हन्तुं वै रामलक्ष्मणौ। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि। स हि तेजःसमायुक्तो रामो दशरथात्मजः
भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह। कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वाविंशः सर्गः ॥३-
एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः। उवाच रक्षसां मध्ये खरः खरतरं वचः
तवापमानप्रभवः क्रोधोऽयमतुलो मम। न शक्यते धारयितुं लवणाम्भ इवोल्बणम्
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्। आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते
बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम्। अहं रामं सह भ्रात्रा नयामि यमसादनम्
परश्वधहतस्याद्य मन्दप्राणस्य भूतले। रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि
सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम्। प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम्