इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्। व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ। इयं च भगिनी तेषां रुधिरं मम पास्यति
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा
युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे। इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश। तत्र जग्मुस्तया सार्धं घना वातेरिता इव
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे विंशः सर्गः ॥३-
ततः शूर्पणखा घोरा राघवाश्रममागता। राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया
ते रामं पर्णशालायामुपविष्टं महाबलम्। ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम्
तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान्। अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः। इमानस्या वधिष्यामि पदवीमागतानिह
वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः। तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन्
राघवोऽपि महच्चापं चामीकरविभूषितम्। चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ। प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ। वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे। ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः
तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ। यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः
तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश। ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः
संरक्तनयना घोरा रामं संरक्तलोचनम्। परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि। अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे
एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः। प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश। उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्। तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः। ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान्
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्। गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्
विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः। तैर्भग्नहृदया भूमौ छिन्नमूला इव द्रुमाः
निपेतुः शोणितस्नाता विकृता विगतासवः। तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता। पपात पुनरेवार्ता सनिर्यासेव वल्लरी
भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत् । सस्वरं मुमुचे बाष्पं विवर्णवदना तदा