कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे
उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि। येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः। ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ। पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ। देवौ वा दानवावेतौ न तर्कयितुमुत्सहे
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्। इमामवस्थां नीताहं यथानाथासती तथा
एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत्। तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्। व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ। इयं च भगिनी तेषां रुधिरं मम पास्यति
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा
युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे। इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश। तत्र जग्मुस्तया सार्धं घना वातेरिता इव
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे विंशः सर्गः ॥३-
ततः शूर्पणखा घोरा राघवाश्रममागता। राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया
ते रामं पर्णशालायामुपविष्टं महाबलम्। ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम्
तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान्। अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः। इमानस्या वधिष्यामि पदवीमागतानिह
वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः। तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन्
राघवोऽपि महच्चापं चामीकरविभूषितम्। चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ। प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ। वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे। ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः
तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ। यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः
तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश। ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः
संरक्तनयना घोरा रामं संरक्तलोचनम्। परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि