अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्। त्वया सह चरिष्यामि निःसपत्ना यथासुखम्
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा। अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव
क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन। न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम्
इमां विरूपामसतीमतिमत्तां महोदरीम्। राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः। उद्धृत्य खड्गं चिच्छेद कर्णनासे महाबलः
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च। यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता। ननाद विविधान् नादान् यथा प्रावृषि तोयदः
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना। प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता। उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद् यथाशनिः
ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम्। विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनविंशः सर्गः ॥३-
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्। भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्। व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता
कः कृष्णसर्पमासीनमाशीविषमनागसम्। तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया
कालपाशं समासज्य कण्ठे मोहान्न बुध्यते। यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्
बलविक्रमसम्पन्ना कामगा कामरूपिणी। इमामवस्थां नीता त्वं केनान्तकसमागता
देवगन्धर्वभूतानामृषीणां च महात्मनाम्। कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्। अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः
निहतस्य मया संख्ये शरसंकृत्तमर्मणः। सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे
उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि। येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः। ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ। पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ। देवौ वा दानवावेतौ न तर्कयितुमुत्सहे
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्। इमामवस्थां नीताहं यथानाथासती तथा
एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत्। तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे