इति रामेण सा प्रोक्ता राक्षसी काममोहिता। विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी। मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः। ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्
कथं दासस्य मे दासी भार्या भवितुमिच्छसि। सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनि
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी। आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी
एतां विरूपामसतीं करालां निर्णतोदरीम्। भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि। मानुषीषु वरारोहे कुर्याद् भावं विचक्षणः
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी। मन्यते तद्वचः सत्यं परिहासाविचक्षणा
सा रामं पर्णशालायामुपविष्टं परंतपम्। सीतया सह दुर्धर्षमब्रवीत् काममोहिता
इमां विरूपामसतीं करालां निर्णतोदरीम्। वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्। त्वया सह चरिष्यामि निःसपत्ना यथासुखम्
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा। अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव
क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन। न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम्
इमां विरूपामसतीमतिमत्तां महोदरीम्। राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः। उद्धृत्य खड्गं चिच्छेद कर्णनासे महाबलः
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च। यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता। ननाद विविधान् नादान् यथा प्रावृषि तोयदः
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना। प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता। उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद् यथाशनिः
ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम्। विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनविंशः सर्गः ॥३-
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्। भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्। व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता
कः कृष्णसर्पमासीनमाशीविषमनागसम्। तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया
कालपाशं समासज्य कण्ठे मोहान्न बुध्यते। यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्
बलविक्रमसम्पन्ना कामगा कामरूपिणी। इमामवस्थां नीता त्वं केनान्तकसमागता
देवगन्धर्वभूतानामृषीणां च महात्मनाम्। कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्। अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः
निहतस्य मया संख्ये शरसंकृत्तमर्मणः। सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति