दीप्तास्यं च महाबाहुं पद्मपत्रायतेक्षणम्। गजविक्रान्तगमनं जटामण्डलधारिणम्
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्। राममिन्दीवरश्यामं कंदर्पसदृशप्रभम्
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता। सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा। प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी। न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना
शरीरजसमाविष्टा राक्षसी राममब्रवीत्। जटी तापसवेषेण सभार्यः शरचापधृक्
आगतस्त्वमिमं देशं कथं राक्षससेवितम्। किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि
एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः। ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे
आसीद् दशरथो नाम राजा त्रिदशविक्रमः। तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः
भ्रातायं लक्ष्मणो नाम यवीयान् मामनुव्रतः। इयं भार्या च वैदेही मम सीतेति विश्रुता
त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा। त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः। साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता
श्रूयतां राम तत्त्वार्थं वक्ष्यामि वचनं मम। अहं शूर्पणखा नाम राक्षसी कामरूपिणी
अरण्यं विचरामीदमेका सर्वभयंकरा। रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः। प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः। प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ
तानहं समतिक्रान्तां राम त्वापूर्वदर्शनात्। समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्
अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी। चिराय भव भर्ता मे सीतया किं करिष्यसि
विकृता च विरूपा च न सेयं सदृशी तव। अहमेवानुरूपा ते भार्यारूपेण पश्य माम्
इमां विरूपामसतीं करालां निर्णतोदरीम्। अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्
ततः पर्वतशृङ्गाणि वनानि विविधानि च। पश्यन् सह मया कामी दण्डकान् विचरिष्यसि
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्। इदं वचनमारेभे वक्तुं वाक्यविशारदः
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टादशः सर्गः ॥३-
तां तु शूर्पणखां रामः कामपाशावपाशिताम्। स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्
कृतदारोऽस्मि भवति भार्येयं दयिता मम। त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः। श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः। अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति
एनं भज विशालाक्षि भर्तारं भ्रातरं मम। असपत्ना वरारोहे मेरुमर्कप्रभा यथा
इति रामेण सा प्रोक्ता राक्षसी काममोहिता। विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी। मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि