मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा। सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्। तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः
हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः। गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्
मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ। दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम्
ततो दुहितरौ राम सुरभिर्द्वे व्यजायत। रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम्
रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान्। सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान्
मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः। ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ
मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा। ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः
सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत। विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा
कद्रूर्नागसहस्रं तु विजज्ञे धरणीधरान्। द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च
तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः। जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि। इदं दुर्गं हि कान्तारं मृगराक्षससेवितम्। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे
जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतोऽभवत् । पितुर्हि शुश्राव सखित्वमात्मवा- ञ्जटायुषा संकथितं पुनः पुनः
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा। जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तदशः सर्गः ॥३-
कृताभिषेको रामस्तु सीता सौमित्रिरेव च। तस्माद् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम्
आश्रमं तमुपागम्य राघवः सहलक्ष्मणः। कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः। स रामः पर्णशालायामासीनः सह सीतया
विरराज महाबाहुश्चित्रया चन्द्रमा इव। लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः
तदासीनस्य रामस्य कथासंसक्तचेतसः। तं देशं राक्षसी काचिदाजगाम यदृच्छया
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः। भगिनी राममासाद्य ददर्श त्रिदशोपमम्
दीप्तास्यं च महाबाहुं पद्मपत्रायतेक्षणम्। गजविक्रान्तगमनं जटामण्डलधारिणम्
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्। राममिन्दीवरश्यामं कंदर्पसदृशप्रभम्
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता। सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा। प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी। न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना
शरीरजसमाविष्टा राक्षसी राममब्रवीत्। जटी तापसवेषेण सभार्यः शरचापधृक्
आगतस्त्वमिमं देशं कथं राक्षससेवितम्। किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि
एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः। ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे