समीकृत तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो । प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-
कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः। आससाद महाकायं गृध्रं भीमपराक्रमम्
तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ। मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति
ततो मधुरया वाचा सौम्यया प्रीणयन्निव। उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः
स तं पितृसखं मत्वा पूजयामास राघवः। स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च
रामस्य वचनं श्रुत्वा कुलमात्मानमेव च। आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्। तान् मे निगदतः सर्वानादितः शृणु राघव
कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम्। शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्
स्थाणुर्मरीचरत्रिश्च क्रतुश्चैव महाबलः। पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव। कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः। षष्टिर्दुहितरो राम यशस्विन्यो महायशः
कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः। अदितिं च दितिं चैव दनूमपि च कालकाम्
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि। तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्
पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान्। अदितिस्तन्मना राम दितिश्च दनुरेव च
कालका च महाबाहो शेषास्त्वमनसोऽभवन्। अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम
आदित्या वसवो रुद्रा अश्विनौ च परंतप। दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः
नरकं कालकं चैव कालकापि व्यजायत। क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्
ताम्रा तु सुषुवे कन्याः पञ्चैता लोकविश्रुताः। उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः। धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी। शुकी नतां विजज्ञे तु नतायां विनता सुता
दश क्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः। मृगीं च मृगमन्दां च हरीं भद्रमदामपि