सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् । पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् । उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि । आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण । तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-
वन रामण्यकम् यत्र जल रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः । विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः । इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना । इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता । न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-
मयूर नादिता रम्याः प्रांशवो बहु कंदराः । दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः । नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः । पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि । धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् । इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा । अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् । सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् । कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-
समीकृत तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-