श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः । मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् । तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः । गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ । दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा । ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत । विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् । द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः । जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् । पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् । उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि । आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण । तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-
वन रामण्यकम् यत्र जल रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः । विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः । इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-