तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ। तमाश्रमं पञ्चवटीं जग्मतुः सह सीतया
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः । आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-
स तम् पितृ सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् । तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् । शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः । पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव । कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् । षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि । ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् । अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-
आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-
नरकम् कालकम् चैव कालका अपि व्यजायत । क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः । उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः । मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् । तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः । गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ । दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-