तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह। रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ। तपसश्च प्रभावेण स्नेहाद् दशरथस्य च
हृदयस्थं च ते च्छन्दो विज्ञातं तपसा मया। इह वासं प्रतिज्ञाय मया सह तपोवने
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति। स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते
स देशः श्लाघनीयश्च नातिदूरे च राघव। गोदावर्याः समीपे च मैथिली तत्र रंस्यते
प्राज्यमूलफलैश्चैव नानाद्विजगणैर्युतः। विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च
भवानपि सदाचारः शक्तश्च परिरक्षणे। अपि चात्र वसन् राम तापसान् पालयिष्यसि
एतदालक्ष्यते वीर मधूकानां महावनम्। उत्तरेणास्य गन्तव्यं न्यग्रोधमपि गच्छता
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः। ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह। सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ। तमाश्रमं पञ्चवटीं जग्मतुः सह सीतया
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः । आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-
स तम् पितृ सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् । तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् । शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः । पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव । कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् । षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि । ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् । अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-
आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-
नरकम् कालकम् चैव कालका अपि व्यजायत । क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः । उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-