कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति। ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्। अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्
बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः। औदार्येणावगच्छामि निधानं तपसामिमम्
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्। जग्राहापततस्तस्य पादौ च रघुनन्दनः
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः। सीतया सह वैदेह्या तदा रामः सलक्ष्मणः
प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः। कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च। वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः। उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्। अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्। दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्
राजा सर्वस्य लोकस्य धर्मचारी महारथः। पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः
एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्। पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत्
इदं दिव्यं महच्चापं हेमवज्रविभूषितम्। वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः। दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः। महाराजतकोशोऽयमसिर्हेमविभूषितः
अनेन धनुषा राम हत्वा संख्ये महासुरान्। आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्
तद्धनुस्तौ च तूणी च शरं खड्गं च मानद। जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्। दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोदशः सर्गः ॥३-
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण। अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः। व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा
एषा च सुकुमारी च खेदैश्च न विमानिता। प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता
यथैषा रमते राम इह सीता तथा कुरु। दुष्करं कृतवत्येषा वने त्वामभिगच्छती
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन। समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा। गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता। श्लाघ्या च व्यपदेश्या च यथा देवीष्वरुन्धती
अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह। वैदेह्या चानया राम वत्स्यसि त्वमरिंदम
एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः। उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः। गुणैः सभ्रातृभार्यस्य गुरुर्नः परितुष्यति
किं तु व्यादिश मे देशं सोदकं बहुकाननम्। यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्
ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य भाषितम्। ध्यात्वा मुहूर्तं धर्मात्मा ततोवाच वचः शुभम्