वैदेहीं च महाभागामिदं वचनमब्रवीत्। दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः
मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति। गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः। तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्
कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्। ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्। तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्
प्रावेशयद् यथान्यायं सत्कारार्हं सुसत्कृतम्। प्रविवेश ततो रामः सीतया सह लक्ष्मणः
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्। स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च
धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च। स्थानं च पाशहस्तस्य वरुणस्य महात्मनः
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च। स्थानं च नागराजस्य गरुडस्थानमेव च
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति। ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्। अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्
बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः। औदार्येणावगच्छामि निधानं तपसामिमम्
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्। जग्राहापततस्तस्य पादौ च रघुनन्दनः
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः। सीतया सह वैदेह्या तदा रामः सलक्ष्मणः
प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः। कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च। वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः। उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्। अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्। दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्
राजा सर्वस्य लोकस्य धर्मचारी महारथः। पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः
एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्। पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत्
इदं दिव्यं महच्चापं हेमवज्रविभूषितम्। वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः। दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः। महाराजतकोशोऽयमसिर्हेमविभूषितः
अनेन धनुषा राम हत्वा संख्ये महासुरान्। आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्
तद्धनुस्तौ च तूणी च शरं खड्गं च मानद। जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्। दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोदशः सर्गः ॥३-
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण। अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः। व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा