मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः। संदेशं पालयंस्तस्य विन्ध्यशैलो न वर्धते
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः। अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः
एष लोकार्चितः साधुर्हिते नित्यं रतः सताम्। अस्मानधिगतानेष श्रेयसा योजयिष्यति
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्। शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अगस्त्यं नियताहाराः सततं पर्युपासते
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः। नृशंसः पापवृत्तो वा मुनिरेष तथाविधः
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह। वसन्ति नियताहारा धर्ममाराधयिष्णवः
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः। त्यक्त्वा देहान् नवैर्देहैः स्वर्याताः परमर्षयः
यक्षत्वममरत्वं च राज्यानि विविधानि च। अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः। निवेदयेह मां प्राप्तमृषये सह सीतया
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वादशः सर्गः ॥३-
स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः। अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली। रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः। अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्। द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः। तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्। कृताञ्जलिरुवाचेदं रामागमनमञ्जसा
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः। पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च
प्रविष्टावाश्रमपदं सीतया सह भार्यया। द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ
यदत्रानन्तरं तत् त्वमाज्ञापयितुमर्हसि। ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्
वैदेहीं च महाभागामिदं वचनमब्रवीत्। दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः
मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति। गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः। तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्
कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्। ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्। तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्
प्रावेशयद् यथान्यायं सत्कारार्हं सुसत्कृतम्। प्रविवेश ततो रामः सीतया सह लक्ष्मणः
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्। स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च
धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च। स्थानं च पाशहस्तस्य वरुणस्य महात्मनः
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च। स्थानं च नागराजस्य गरुडस्थानमेव च