अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम्। प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः
सोऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा। चक्षुषानलकल्पेन निर्दग्धो निधनं गतः
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः। विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्
एवं कथयमानस्य तस्य सौमित्रिणा सह। रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत
उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि। प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयत्
सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः। न्यवसत् तां निशामेकां प्राश्य मूलफलानि च
तस्यां रात्र्यां व्यतीतायामुदिते रविमण्डले। भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः
अभिवादये त्वां भगवन् सुखमस्म्युषितो निशाम्। आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः। यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्
नीवारान् पनसान् सालान् वञ्जुलांस्तिनिशांस्तथा। चिरिबिल्वान् मधूकांश्च बिल्वानथ च तिन्दुकान्
पुष्पितान् पुष्पिताग्राभिर्लताभिरुपशोभितान्। ददर्श रामः शतशस्तत्र कान्तारपादपान्
हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान्। मत्तैः शकुनिसङ्घैश्च शतशः प्रतिनादितान्
ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः। पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः। आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा। आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः। प्रशान्तमृगयूथश्च नानाशकुनिनादितः
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया। दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा
तस्येदमाश्रमपदं प्रभावाद् यस्य राक्षसैः। दिगियं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा। तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा। प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः
मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः। संदेशं पालयंस्तस्य विन्ध्यशैलो न वर्धते
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः। अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः
एष लोकार्चितः साधुर्हिते नित्यं रतः सताम्। अस्मानधिगतानेष श्रेयसा योजयिष्यति
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्। शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अगस्त्यं नियताहाराः सततं पर्युपासते
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः। नृशंसः पापवृत्तो वा मुनिरेष तथाविधः
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह। वसन्ति नियताहारा धर्ममाराधयिष्णवः
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः। त्यक्त्वा देहान् नवैर्देहैः स्वर्याताः परमर्षयः
यक्षत्वममरत्वं च राज्यानि विविधानि च। अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः। निवेदयेह मां प्राप्तमृषये सह सीतया