सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्। अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्
अगस्त्यमभिगच्छेति सीतया सह राघव। दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्
अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः। योजनान्याश्रमात् तात याहि चत्वारि वै ततः। दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः
स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते। बहुपुष्पफले रम्ये नानाविहगनादिते
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्। दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्। रमणीये वनोद्देशे बहुपादपशोभिते
रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह। स हि रम्यो वनोद्देशो बहुपादपसंयुतः
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्। अद्यैव गमने बुद्धिं रोचयस्व महामते
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च। प्रतस्थेऽगस्त्यमुद्दिश्य सानुगः सह सीतया
पश्यन् वनानि चित्राणि पर्वतांश्चाभ्रसंनिभान्। सरांसि सरितश्चैव पथि मार्गवशानुगान्
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्। इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्
एतदेवाश्रमपदं नूनं तस्य महात्मनः। अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः। संनताः फलभारेण पुष्पभारेण च द्रुमाः
पिप्पलीनां च पक्वानां वनादस्मादुपागतः। गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः। लूनाश्च परिदृश्यन्ते दर्भा वैदूर्यवर्चसः
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्। पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः। पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमर्जितैः
ततः सुतीक्ष्णवचनं यथा सौम्य मया श्रुतम्। अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया। यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा
इहैकदा किल क्रूरो वातापिरपि चेल्वलः। भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्। आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निर्घृणः
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्। तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्। वातापे निष्क्रमस्वेति स्वरेण महता वदन्
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्। भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः। विनाशितानि संहत्य नित्यशः पिशिताशनैः
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा। अनुभूय किल श्राद्धे भक्षितः स महासुरः
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तेऽवनेजनम्। भ्रातरं निष्क्रमस्वेति चेल्वलः समभाषत
स तदा भाषमाणं तु भ्रातरं विप्रघातिनम्। अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः। भ्रातुस्तु मेषरूपस्य गतस्य यमसादनम्