ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः। नीतो मदनवश्यत्वं देवानां कार्यसिद्धये
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः। तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम्
तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्
तासां संक्रीडमानानामेष वादित्रनिःस्वनः। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः
आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः
एवं कथयमानः स ददर्शाश्रममण्डलम्। कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः। तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले
उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित्
क्वचिच्च चतुरो मासान् पञ्च षट् च परान् क्वचित्। अपरत्राधिकान् मासानध्यर्धमधिकं क्वचित्
त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम्। तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै
रमतश्चानुकूल्येन ययुः संवत्सरा दश। परिसृत्य च धर्मज्ञो राघवः सह सीतया
सुतीक्ष्णस्याश्रमपदं पुनरेवाजगाम ह। स तमाश्रममागम्य मुनिभिः परिपूजितः
तत्रापि न्यवसद् रामः किंचित् कालमरिंदमः। अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम्
उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्। अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः
वसतीति मया नित्यं कथाः कथयतां श्रुतम्। न तु जानामि तं देशं वनस्यास्य महत्तया
कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः। प्रसादार्थं भगवतः सानुजः सह सीतया
अगस्त्यमधिगच्छेयमभिवादयितुं मुनिम्। मनोरथो महानेष हृदि सम्परिवर्तते
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्। इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्। अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्
अगस्त्यमभिगच्छेति सीतया सह राघव। दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्
अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः। योजनान्याश्रमात् तात याहि चत्वारि वै ततः। दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः
स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते। बहुपुष्पफले रम्ये नानाविहगनादिते
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्। दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्। रमणीये वनोद्देशे बहुपादपशोभिते
रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह। स हि रम्यो वनोद्देशो बहुपादपसंयुतः
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्। अद्यैव गमने बुद्धिं रोचयस्व महामते
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च। प्रतस्थेऽगस्त्यमुद्दिश्य सानुगः सह सीतया