यूथबद्धांश्च पृषतान् मदोन्मत्तान् विषाणिनः। महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। ददृशुः सहिता रम्यं तटाकं योजनायुतम्
पद्मपुष्करसम्बाधं गजयूथैरलंकृतम्। सारसैर्हंसकादम्बैः संकुलं जलजातिभिः
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे। गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते
ततः कौतूहलाद् रामो लक्ष्मणश्च महारथः। मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने। कौतूहलं महज्जातं किमिदं साधु कथ्यताम्
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा। प्रभावं सरसः क्षिप्रमाख्यातुमुपचक्रमे
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः। दशवर्षसहस्राणि वायुभक्षो जलाशये
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः। अब्रुवन् वचनं सर्वे परस्परसमागताः
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः। इति संविग्नमनसः सर्वे तत्र दिवौकसः
ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः। नीतो मदनवश्यत्वं देवानां कार्यसिद्धये
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः। तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम्
तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्
तासां संक्रीडमानानामेष वादित्रनिःस्वनः। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः
आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः
एवं कथयमानः स ददर्शाश्रममण्डलम्। कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः। तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले
उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित्
क्वचिच्च चतुरो मासान् पञ्च षट् च परान् क्वचित्। अपरत्राधिकान् मासानध्यर्धमधिकं क्वचित्
त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम्। तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै
रमतश्चानुकूल्येन ययुः संवत्सरा दश। परिसृत्य च धर्मज्ञो राघवः सह सीतया
सुतीक्ष्णस्याश्रमपदं पुनरेवाजगाम ह। स तमाश्रममागम्य मुनिभिः परिपूजितः
तत्रापि न्यवसद् रामः किंचित् कालमरिंदमः। अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम्
उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्। अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः
वसतीति मया नित्यं कथाः कथयतां श्रुतम्। न तु जानामि तं देशं वनस्यास्य महत्तया
कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः। प्रसादार्थं भगवतः सानुजः सह सीतया
अगस्त्यमधिगच्छेयमभिवादयितुं मुनिम्। मनोरथो महानेष हृदि सम्परिवर्तते
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्। इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः