ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे। संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा। अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्
न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः। तदवश्यं मया कार्यमृषीणां परिपालनम्
अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः। मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः
परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते। सदृशं चानुरूपं च कुलस्य तव शोभने। सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्। रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि
thumb|एकादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकादशः सर्गः ॥३-
अग्रतः प्रययौ रामः सीता मध्ये सुशोभना। पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह
तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च। नदीश्च विविधा रम्या जग्मतुः सह सीतया
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः। सरांसि च सपद्मानि युतानि जलजैः खगैः
यूथबद्धांश्च पृषतान् मदोन्मत्तान् विषाणिनः। महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। ददृशुः सहिता रम्यं तटाकं योजनायुतम्
पद्मपुष्करसम्बाधं गजयूथैरलंकृतम्। सारसैर्हंसकादम्बैः संकुलं जलजातिभिः
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे। गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते
ततः कौतूहलाद् रामो लक्ष्मणश्च महारथः। मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने। कौतूहलं महज्जातं किमिदं साधु कथ्यताम्
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा। प्रभावं सरसः क्षिप्रमाख्यातुमुपचक्रमे
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः। दशवर्षसहस्राणि वायुभक्षो जलाशये
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः। अब्रुवन् वचनं सर्वे परस्परसमागताः
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः। इति संविग्नमनसः सर्वे तत्र दिवौकसः
ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः। नीतो मदनवश्यत्वं देवानां कार्यसिद्धये
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः। तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम्
तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्
तासां संक्रीडमानानामेष वादित्रनिःस्वनः। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः
आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः
एवं कथयमानः स ददर्शाश्रममण्डलम्। कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः। तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले
उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित्