यत्र गच्छत्युपादातुं मूलानि च फलानि च। न विना याति तं खड्गं न्यासरक्षणतत्परः
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः। चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः। तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः
एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम्। अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते
स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये। न कथंचन सा कार्या गृहीतधनुषा त्वया
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्। अपराधं विना हन्तुं लोको वीर न मंस्यते
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्। धनुषा कार्यमेतावदार्तानामभिरक्षणम्
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च। व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्
कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात्। पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम। यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम्। धर्मेण लभते सर्वं धर्मसारमिदं जगत्
आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः। प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम्
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने। सर्वं तु विदितं तुभ्यं त्रैलोक्यामपि तत्त्वतः
स्त्रीचापलादेतदुपाहृतं मे धर्मं च वक्तुं तव कः समर्थः। विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे दशमः सर्गः ॥३-
वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम्
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे
किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः। मां सीते स्वयमागम्य शरण्यं शरणं गताः
वसन्तः कालकालेषु वने मूलफलाशनाः। न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः। ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः। मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्
कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम्। प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः। किं करोमीति च मया व्याहृतं द्विजसंनिधौ
अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु। होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः। राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्
गतिं मृगयमाणानां भवान् नः परमा गतिः। कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान्
चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम्। बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः। तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने। मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम्