शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा। प्रस्थितौ धृतचापासी सीतया सह राघवौ
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे नवमः सर्गः ॥३-
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्। हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्
अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान्। निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत। मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ
परदाराभिगमनं विना वैरं च रौद्रता। मिथ्यावाक्यं न ते भूतं न भविष्यति राघव
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्। तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन
मनस्यपि तथा राम न चैतद् विद्यते क्वचित्। स्वदारनिरतश्चैव नित्यमेव नृपात्मज
धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः। त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः। तव वश्येन्द्रियत्वं च जानामि शुभदर्शन
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्। ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्
एतन्निमित्तं च वनं दण्डका इति विश्रुतम्। प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः। त्वद्धृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्
नहि मे रोचते वीर गमनं दण्डकान् प्रति। कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः। दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्
क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च। समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्
पुरा किल महाबाहो तपस्वी सत्यवान् शुचिः। कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः। खड्गपाणिरथागच्छदाश्रमं भटरूपधृक्
तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः। स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः। वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः
यत्र गच्छत्युपादातुं मूलानि च फलानि च। न विना याति तं खड्गं न्यासरक्षणतत्परः
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः। चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः। तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः
एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम्। अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते
स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये। न कथंचन सा कार्या गृहीतधनुषा त्वया
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्। अपराधं विना हन्तुं लोको वीर न मंस्यते
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्। धनुषा कार्यमेतावदार्तानामभिरक्षणम्
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च। व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्
कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात्। पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम। यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः